|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.45. अध्यायः 045
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सनत्सुजात उवाच। 5-45-0x(3535)(33475)
शोकः क्रोधश्च लोभश्च कामो मानः परासुता।
ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ॥ 5-45-1(33476)
द्वादशैते महादोषा मनुष्यप्राणनाशनाः।
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते।
यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ॥ 5-45-2(33477)
स्पृहयालुरुग्रः परुषो वा वदान्यः
क्रोधं बिभ्रन्मनसा वै विकत्थी।
नृशंसधर्माः षडिमे जना वै
प्राप्याप्यर्थं नोत सभाजयन्ते ॥ 5-45-3(33478)
संभोगसंविद्विषमोऽतिमानी
दत्त्वा विकत्थी कृपणो दुर्बलश्च।
बहुप्रशंकसी वनिताद्विट् सदैव
सप्तैवोक्ताः पापशीला नृशंसाः ॥ 5-45-4(33479)
धर्मश्च सत्यं च तपो दमश्च
अमात्सर्यं ह्रीस्तितिक्षानसूया।
दानं श्रुतं चैव धृतिः क्षमा च
महाव्रता द्वादश ब्राह्मणस्य ॥ 5-45-5(33480)
यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो यो
नास्य स्वमस्तीति च वेदितव्यम् ॥ 5-45-6(33481)
दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम्।
एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥ 5-45-7(33482)
सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते।
नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ॥ 5-45-8(33483)
मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः ।
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ॥ 5-45-9(33484)
कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम्।
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥ 5-45-10(33485)
ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता।
तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥ 5-45-11(33486)
सौहृदे वै षङ्गुणा वेदितव्यः
प्रिये हृष्यन्त्यप्रिये च व्यथन्ते।
स्यादात्मनः सुचिरं याचते यो
ददात्ययाच्यमपि देयं खलु स्यात्।
इष्टान्पुत्रान्विभवान्स्वांश्च दारा-
नभ्यर्थितश्चार्हति शुद्धभावः ॥ 5-45-12(33487)
त्यक्तद्रव्यः संवसेन्नेह कामा-
द्भिङ्क्ते कर्मस्वाशिषं बाधते च ॥ 5-45-13(33488)
द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः।
पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥ 5-45-14(33489)
एतत्समृद्धमप्यृद्धं तपो भवति केवलम्।
सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥ 5-45-15(33490)
यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात्।
मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा ॥ 5-45-16(33491)
सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति।
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ॥ 5-45-17(33492)
अध्यापयेन्महदेतद्यशस्यं
वाचो विकराः कवयो वदन्ति।
अस्मिन्योगे सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति॥ 5-45-18(33493)
न कर्मणा सुकृतेनैव राजन्
सत्यं जयेज्जुहुयाद्वा यजेद्वा।
नैतेन वालोऽमृत्युमभ्येति राजन्
रतिं चासौ न लभत्यन्तकाले ॥ 5-45-19(33494)
तृष्णीमेक उपासीत चेष्टेत मनसापि न।
तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥ 5-45-20(33495)
अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति।
वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ॥ 5-45-21(33496)
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|